अभवत् इत्यत्र – भू+शप्+झि- //भू+अ+झ्-इ // अस्याम् स्थितौ झोऽन्तः इति अन्त-आदेशः अथ च इतश्च इति इकार-लोपः उभयम् अपि युगपत् प्राप्नोति। कतरो विधिः बलीयान्? कश्चात्र विनिगमकः?
(पाणिनिशाला-संस्कृतभारत्याम् मीनाक्षिवर्यया पृष्ट एषः)
नवम्बर 25, 2009 Balram shukla द्वारा
झोऽन्तः(७/१/३) सूत्रम् इतश्च(३/४/१००)-सूत्रात् पश्चात् अस्ति | अतः “पूर्व-पर-नित्य-अन्तरङ्ग-अपवादानाम् उत्तरीत्तरं बलीयः” इत्यनेन ” झोऽन्तः” सूत्रं ” इतश्च”-सूत्रात् बलीयः अस्ति | अतएव अत्र “झोऽन्तः”- इति सूत्रेण अन्त-आदेशः भवति | अपि च , “भवन्ति” इत्यत्र “इतश्च” सूत्रेण इकारस्य लोपः एतस्मात् कारणात् न भवितुं शक्नोति यतोहि लट् टित् अस्ति , “इतश्च” सूत्रं ङित्-लकारस्य स्थाने यत् इकारान्त-परस्मैपदम् भवति तदन्तस्य इकारास्य लोपः करोति |
साधु कृते!
वस्तुतः मम विवक्षितः प्रश्नः आसीत्- अभवन् इत्यत्र उभयोः विध्योर्मध्यात् किम् प्राप्नोति इति। अहम् सम्पादयामि प्रश्नम्।
भवत्या एतत् सम्यक् आलोचितः।
अभवन् इत्यत्र “अट्+भू+झि” इतिस्थितौ उभयविधिप्राप्तौ सति वयम् पश्यामः यत् झोऽन्तविधिःनित्यः इत्ः लोपविधिस्तु अनित्यः। पश्यतु भवत्यैव उद्धृताम् परिभाषाम्- “पूर्व-पर-नित्य-अन्तरङ्ग-अपवादानाम् उत्तरीत्तरं बलीयः”।
नित्यविधिः खलु – “कृताकृतप्रसङ्गी यो विधिः स नित्यः” अर्थात् द्वयोर्मध्ये एकस्मिन् विधौ प्रवृत्तेऽपि यद्यपरः प्राप्नोति तदा स विधिः नित्यः। यथा झि इत्यत्र इकार-लोपे कृते अकृते वा अन्तादेशः प्राप्नोति अत एव स विधिः नित्यः।अतः स एव प्रवर्तिष्यते।
न तु अनित्यः इकारलोपः।
“अभवन्” इत्यत्र उभयोः विध्योः प्राप्नुतः | प्रथमं बलीयः-कारणात् “झोऽन्तः”- इति सूत्रेण अन्त-आदेशः भवति , तत्पश्चात् “इतश्च” सूत्रेण लङ् (ङित्) लकारस्य स्थाने “स्थानिवादादेशो अनल्विधौ” इति सहाय्येन यत् इकारान्त-परस्मैपदम् अस्ति तस्य लोपः अपि भवति |
महोदय , परन्तु पुस्तके तु प्रथमं “इतश्च” सूत्रेण इकारस्य लोपः तत्पश्चात् “झोऽन्तः” सूत्रेण अन्त-आदेशः कृतम् अस्ति – तत् misprint अस्ति खलु !
सत्यम् !
प्रथमं अन्तादेश एव साधुः।
महोदय मम शङ्का अस्ति यत्- “क्रोष्टा” सिद्धौ मध्ये कथं “ऋदुशनस्पुरुदंशोऽनेहसां च(७/१/९४)” सूत्रं “ऋतो ङिसर्वनामस्थानयोः(७/३/११०)” इति सूत्रं बाधयितुं शक्नोति ! “ऋतो ङिसर्वनामस्थानयोः(७/३/११०)” इति सूत्रं तु “ऋदुशनस्पुरुदंशोऽनेहसां च(७/१/९४)” इति सूत्रात् पश्चात् अस्ति अतएव बलीयः अपि ! किम् “ऋदुशनस्पुरुदंशोऽनेहसां च(७/१/९४)” अपवाद सूत्रं अस्ति? अतएव बलीयः ?
इतोपि एका शङ्का अस्ति यत्-पाणिनेः “पूर्व-पर-नित्य-अन्तरङ्ग-अपवादानाम् उत्तरीत्तरं बलीयः” इति नियमम् अस्ति एव तर्हि “विप्रतिषेधे परं कार्यम्” इति सूत्रस्य आवश्यकता का ?