स्थानी हि नाम यो भूत्वा न भवति । आदेशो हि नां यो भूत्वा भवति । एतच्च नित्येषु शब्देषु नोपपद्यते यत्सतो नां विनाशः स्यादसतः प्रादुर्भावः ॥
(महाभाष्यम् – १–१–८)
स्थानी हि नाम यो भूत्वा न भवति । आदेशो हि नां यो भूत्वा भवति । एतच्च नित्येषु शब्देषु नोपपद्यते यत्सतो नां विनाशः स्यादसतः प्रादुर्भावः ॥
(महाभाष्यम् – १–१–८)
असन्देहार्थं चाध्येयम्..... में प्रकाशित किया गया | Leave a Comment »
कर्तृकर्मणोः कृति…..
९–११–१२
कर्तृकर्मणोः कृतीत्यस्य व्याख्यानावसरे बालकैः अदृष्टचरः प्रश्न उत्थापितः। जगतः कर्ता कृष्ण । कृष्णस्य कृतिः जगदित्यत्र प्रथमे वाक्ये कर्मणि षष्ठी द्वितीये च कर्तरि कथमेतत्। ममापि बुद्धौ यदुत्तरमागतम् तदुक्तम्। विद्वांसस्तत्र प्रमाणम् ।
कर्ता इत्यत्र तृच् प्रत्ययः कर्तारं अभिदधाति अतोऽत्र कर्ता अभिहितः अभिहिते च कर्तरि प्रथमैव अतः प्रथमाऽत्र न षष्ठी । अनभिहिते इत्यस्य तत्राधिकारात् । द्वितीये च क्तिन्प्रत्ययः कर्माभिहितवान् अत एव तत्र अभिहिते कर्मणि पुनरपि प्रथमा। कर्ता च षष्ठ्याम्।
परन्तु यत्र पुनः प्रत्ययः भावे तत्र ते उभेऽपि कर्तृकर्मणी अनभिहिते। अत उभयत्रापि षष्ठी प्राप्नोति । तदर्थमाचार्यः विशिष्टां व्यवस्थां दातुकामस्सूत्रयति उभयप्राप्तौ कर्मणीति।
असन्देहार्थं चाध्येयम्..... में प्रकाशित किया गया | Leave a Comment »
लिटि इड्व्यवस्था
१– लिटि सेटः सर्वत्र सेटः वेटश्च सर्वत्र वेट एव । एषा व्यवस्था अनिड्धातुमात्रव्यापिनी।
२– सप्त प्रत्यया अत्र इटमर्हन्ति । थल्, व, म, से, ध्वे ,वहे , महे ।
३– क्रादिनियमेन क्रादिवर्जाः सर्वेऽनिड्धातवो लिटि इटम् अर्हन्ति। कथम् – कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि इति सूत्रेण
क्रादिसप्तधातूनां इड्निषेधः कृतः। ते पुनः एकाच्त्वादनुदात्तत्वाच्च एकाच उपदेशेऽनुदात्तादित्यनेनैव इड्निषेधभाजः।
सिद्धे सति आरम्भो नियमाय भवति। अयमपि नियमः– एतेषां सप्तधातूनामेव इड् निषिध्यते लिटि न अन्येषाम् इति
नियमस्वरूपम्। अतः क्रादिभिन्नाः सर्वेऽपि अनिड्धातवः लिटि इड्भाजः सञ्जाताः।
४– अधुना, अजन्तानाम्, ह्रस्वाकारवतां च सर्वेषाम् थलि अपि (सर्वेषु लिट्स्विव) इडागमः प्राप्तः क्रादिनियमेन।
तन्निषेधति सूत्रद्वयं– अचस्तास्वत्थल्यनिटो नित्यम्, उपदेशेऽत्वतश्च इति । अर्थाद् अनयोः पुनः थलि इडागमः
निषिध्यते।
५– भारद्वाजस्य मतेन ऋकारान्तानां धातूनां इडागमनिषेधः – ऋतो भारद्वाजस्येत्यनेन सूत्रेण। परन्तु स निषेधस्तु
पूर्वेणैव सिद्धः। अजन्तेष्वेव ऋकारान्तस्याप्यन्तर्भूतत्वात्। अतः अयमपि सिद्धे सत्यारब्धत्वात् नियमः । तस्य स्वरूपम्
तु एवम्– भारद्वाजमतेन केवलं ऋकारान्ताः थलि अनिटः न तु अन्ये । एवम् ऋकारान्तवर्जा अजन्तधातवः
ह्रस्वाकारवन्तश्च धातवः भारद्वाजमतेन थलि सेटः, पाणिनिमते तु अनिटः अर्थात् विकल्पेन इड्भाजः, वेट इति यावत्।
ऋकारान्ताः पुनः उभययोर्मतेन अनिटः नित्यानिट इत्यर्थः।
अतः – ऋकारान्ता धातवः थलि अनिटः, शिष्टा अजन्ता अकारवन्तश्च थलि वेटः, क्रादिभिन्ना धातवः शिष्टेषु सर्वेषु
अपि लिट्प्रत्ययेषु सेटः। तथा च कारिका–
अजन्तोऽकारवान् वा यस्तास्यनिट् थलि वेडयम्।
ऋदन्त ईदृङ् नित्यानिट् तास्यन्यो लिटि सेड्भवेत्॥ इति॥
असन्देहार्थं चाध्येयम्..... में प्रकाशित किया गया | टैग की गईं चर्च, चर्चा | Leave a Comment »
How nouns are formed in Sanskrit. Words like खग, द्विज, द्विप, वारिज, वारिद, पयोद, etc have derivations. But how are the words like गज, अश्व, बालः formed? Are they too formed from dhatus? How are the various types of nouns in Sanskrit formed? What are the rules that are applied in this?
There are two kinds of nominal bases(प्रातिपदिक) in Sanskrit –
1- Those who have got clear derivation.In them the division of root and suffix is quite visible and simply inferable. These are व्युत्पन्न प्रातिपदिक (derived bases) .
2- second are those who unlike the first have very nebulous division.And after division the meaning of root and
suffix is not fully compatible with the undertaken word. These are called अव्युत्पन्नप्रातिपदिक .
Regarding अव्युत्पन्नप्रातिपदिक some grammarians think that they are quite underivable. And they are not constituents of any root or suffix. Trying to derive them is futile and just for pedantic amusement.
But Scholars of the Nirukt vedaang = nairukt and a fraction of grammarians are of the view that all the Nominal bases are derived from the verbal roots. Every word (even the indeclinable=avyaya) is related to some verb.
Thus to derive all the word is a sacred duty for them.(See the first chapter of nirukt of maharshi yaask )
There is an ancillary book of ASTaadhyaayi ascribed to His Highness Panini deals with derivation of these अव्युत्पन्नप्रातिपदिकs. It is called uNaadi-sUtr. This book serves the purpose competently as it specifies roots and suffixes with all the irregular changes in अव्युत्पन्नप्रातिपदिकs. Besides this Some Sanskrit dictionaries also provide the derivations mainly वाचस्पत्यम , शब्दकल्पद्रुम and that of Apte.
I here provide the derivations of some words-
गज – गज+अच (one who is intoxicated)
अश्व – अश्नुते अध्वानं ( अश+kvan )= that who strides on the way. ,
बालः- बल+ण (a growing one )
असन्देहार्थं चाध्येयम्..... में प्रकाशित किया गया | टैग की गईं प्रश्नः | 4 Comments »
को नाम अनुबन्ध-लोपः?
(व्रजेश मिश्रः ज्ञातुम् ईहते ; १५-१२-२००९)
अनु=पश्चात् बद्ध्यते इति अनुबन्धः। अर्थात् इत्सञ्ज्ञक-वर्णाः। तेषां लोपः अनुबन्ध-लोपः।
आचार्येण १/३/२ तः १/३/८ पर्यन्तम् (१)वर्णानाम् इत्-सञ्ज्ञा कृता ;
१/३/९ तम-सूत्रेण च तेषां विहित-इत्-सञ्ज्ञकानां (२)लोपः आदिष्टः।
उभय-कार्ययोः समेकितं नाम वर्तते ’अनुबन्ध-लोप’ इति।
वैयाकरणैः लाघव-वशात् अयं शब्दः प्रयुज्यते ।
पाणिनिना अस्य शब्दस्य प्रयोगः न कृतः॥
असन्देहार्थं चाध्येयम्....., संज्ञाप्रकरणम् में प्रकाशित किया गया | टैग की गईं छात्रः, प्रश्नः, संज्ञाः | Leave a Comment »
खलपूः
(प्रथमा–एकवचन)इति सिद्धौ “खलपू स्”–इति जाते “हल्ड्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्” इत्यनेन सूत्रेण (दीर्घान्त खलपू एत्यस्य पश्चात् सु–इत्यस्य अपृक्त )सकारस्य किमर्थं लोपः न भवति ?(
कृतिः जिज्ञासते-२९-११-२००९)प्रतिस्पन्दः–
खलपू शब्दः न हलन्तः न ङ्यन्तः न आबन्तः। सूत्रे दीर्घशब्दः ङ्यन्त–आबन्तयोः विशेषणम् । केवलं दीर्घत्वम् सुलोपाय न अलम्। ङ्यन्त–आबन्तौ यदा दीर्घौ तदैव सुलोपः।दीर्घशब्दः ङ्यन्त–आबन्तयोः विशेषणम् दत्तम् यथा कृतह्रस्वाङ्यन्त–आबन्त-शब्दानां देशानां सुलोपः मा भूत् इति। यथा– निष्कौशाम्बिः। अत्र सुलोप्ः सूत्रे दीर्घ-ग्रहण सामर्थ्यादेव न अजायत॥
खलपू शब्दः न हलन्तः न ङ्यन्तः न आबन्तः। सूत्रे दीर्घशब्दः ङ्यन्त–आबन्तयोः विशेषणम् । केवलं दीर्घत्वम् सुलोपाय न अलम्। ङ्यन्त–आबन्तौ यदा दीर्घौ तदैव सुलोपः।दीर्घशब्दः ङ्यन्त–आबन्तयोः विशेषणम् दत्तम् यथा कृतह्रस्वाङ्यन्त–आबन्त-शब्दानां देशानां सुलोपः मा भूत् इति। यथा– निष्कौशाम्बिः। अत्र सुलोप्ः सूत्रे दीर्घ-ग्रहण सामर्थ्यादेव न अजायत॥
असन्देहार्थं चाध्येयम्....., परिभाषा, शब्दसाधुत्वम्, सूत्रचर्चा में प्रकाशित किया गया | टैग की गईं अङ्गाधिकारः(६/४तः७/४), छात्रा, प्रश्नः, विधिसूत्रम्, सुबन्तः | Leave a Comment »
“
क्रोष्टा” सिद्धौ कथं “ऋदुशनस्पुरुदंशोऽनेहसां च(७/१/९४)” सूत्रं “ऋतो ङिसर्वनामस्थानयोः(७/३/११०)” इति सूत्रं बाधितुं शक्नोति ! “ऋतो ङिसर्वनामस्थानयोः(७/३/११०)” इति सूत्रं तु “ऋदुशनस्पुरुदंशोऽनेहसां च(७/१/९४)” इति सूत्रात् पश्चात् अस्ति अतएव बलीयः अपि ! किम् “ऋदुशनस्पुरुदंशोऽनेहसां च(७/१/९४)” अपवाद सूत्रं अस्ति? अतएव बलीयः ?
अपवादाः अल्पदेश-व्याप्तिमन्तः , उत्सर्गाः पुनः अधिक-देश-व्यापिनः। उभौ च समान-विषयकाः। पश्यतु अत्र –
“ऋदुशनस्पुरुदंशोऽनेहसां च(७/१/९४)” सु-मात्र-विषयः,“ऋदुशनस्पुरुदंशोऽनेहसां
च
(७/१/९४)” इति सर्वनामस्थान-विषयकः। अतः “ऋदुशनस्पुरुदंशोऽनेहसां च(७/१/९४)” इत्यस्य अपवादत्वं स्पष्टम् एव।अपवादाः बलीयांसः भवन्ति –“अपवादो वचनप्रामाण्यात्”। आर्थात् यदि अपवादस्यापि क्षेत्रे उत्सर्गः प्रवर्तेत तदा अपवाद-सूत्र-निर्माणस्य पाणिनेह् प्रयत्न एव व्यर्थः स्यात् । पाणिनिः आचार्य कदापि व्यर्थम् न चेष्टते , इति कृत्वा अपवादाः उत्सर्गान् बाधन्ते। उत्सर्गस्तु अपवाद-विषयं त्यक्त्वा एव प्रवर्तते – तथा च परिभाषे-
१-’प्रथमम् अपवादोऽभिनिविशते तत उत्सर्गः’ , २- ’प्रकल्प्य चापवाद-विषयान् उत्सर्गः प्रवर्तते।’
उत्सृज्य प्रवृत्तत्वाद् एव उत्सर्गः उत्सर्ग इति कथ्यते॥
असन्देहार्थं चाध्येयम्....., परिभाषा में प्रकाशित किया गया | टैग की गईं छात्रा, प्रश्नः, व्यर्थता? | Leave a Comment »
कर्ता-कर्तारौ इति भवति तथा पिता-पितरौ इति। किं कारणम् अस्य
भेदस्य?
असन्देहार्थं चाध्येयम्....., शब्दसाधुत्वम्, सूत्रचर्चा में प्रकाशित किया गया | टैग की गईं अङ्गाधिकारः(६/४तः७/४), प्रश्नः, विधिसूत्रम्, सुबन्तः | 3 Comments »
जाते उपधा-दीर्घकरम् सूत्रं समानम् उत भिन्नम्?
असन्देहार्थं चाध्येयम्....., शब्दसाधुत्वम्, सूत्रचर्चा में प्रकाशित किया गया | टैग की गईं अङ्गाधिकारः(६/४तः७/४), प्रश्नः, विधिसूत्रम्, सुबन्तः | 3 Comments »
“कर्ण” इति शब्दे रकार-णकारयोः मध्ये किम्? संयोगः अथवा संहिता ।
असन्देहार्थं चाध्येयम्....., संज्ञाप्रकरणम्, सूत्रचर्चा में प्रकाशित किया गया | टैग की गईं प्रश्नः, संज्ञाः | 2 Comments »