पाणिनेर्न नदी गङ्गा यमुना न स्थली नदी।नरः स्वातन्त्र्यमापन्नो यदिच्छति करोति तत्॥ पाणिनेः सूत्रैः गङ्गायमुनयोः नदीसंज्ञा न भवति । “यूस्त्र्याख्यौ नदी” इति सूत्रेण केवलम् ईकार – ऊकारन्तानामेव नदीसञ्ज्ञान तु आकारान्तानाम्। स्थलीशब्दस्य पुनः ईकारान्तत्वाद् भवत्येव।एतादृशम् उत्तराधरं स्वतन्त्र एव कर्तुम् शक्नोति जनः।सत्यमेव व्याकरणस्य “स्वतन्त्रः कर्ता” ।
Posts Tagged ‘सूक्तयः’
स्वतन्त्रः पाणिनिः…..
Posted in व्याकरणप्रशस्तयः, हस शाब्दिक !!, tagged श्लोकः, सूक्तयः on नवम्बर 26, 2009 | Leave a Comment »
अभवन् …….
Posted in असन्देहार्थं चाध्येयम्....., शब्दसाधुत्वम्, सूत्रचर्चा, tagged तिङन्तः, प्रश्नः, सूक्तयः on नवम्बर 25, 2009 | 8 Comments »
अभवत् इत्यत्र – भू+शप्+झि- //भू+अ+झ्-इ // अस्याम् स्थितौ झोऽन्तः इति अन्त-आदेशः अथ च इतश्च इति इकार-लोपः उभयम् अपि युगपत् प्राप्नोति। कतरो विधिः बलीयान्? कश्चात्र विनिगमकः? (पाणिनिशाला-संस्कृतभारत्याम् मीनाक्षिवर्यया पृष्ट एषः)
सूत्रम् पाणिनिबद्धं ……
Posted in व्याकरणप्रशस्तयः, tagged आर्या, सूक्तयः on नवम्बर 21, 2009 | Leave a Comment »
सूत्रम् पाणिनिबद्धं कलयन् पुरुषः समुद्वहति सुदॄशम् / वर्णादीनां धर्मान् बुद्ध्वा सम्यक् प्रयुङ्क्तेऽसौ //
तस्मै पाणिनये नमः
Posted in Uncategorized, tagged सूक्तयः on नवम्बर 21, 2009 | 1 Comment »
येनाक्षरसमाम्नायमधिगम्य् महेश्वरात् / कॄत्स्नव्याकरणं प्रोक्तं तस्मै पाणिनये नमः //