खलपूः (प्रथमा-एकवचन)इति सिद्धौ “खलपू स्”-इति जाते “हल्ड्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्” इत्यनेन सूत्रेण (दीर्घान्त खलपू एत्यस्य पश्चात् सु-इत्यस्य अपृक्त )सकारस्य किमर्थं लोपः न भवति ?( कृतिः जिज्ञासते-२९-११-२००९)प्रतिस्पन्दः– खलपू शब्दः न हलन्तः न ङ्यन्तः न आबन्तः। सूत्रे दीर्घशब्दः ङ्यन्त-आबन्तयोः विशेषणम् । केवलं दीर्घत्वम् सुलोपाय न अलम्। ङ्यन्त-आबन्तौ यदा दीर्घौ तदैव सुलोपः।दीर्घशब्दः ङ्यन्त-आबन्तयोः विशेषणम् दत्तम् [...]
Archive for the ‘सूत्रचर्चा’ Category
Posted in असन्देहार्थं चाध्येयम्....., परिभाषा, शब्दसाधुत्वम्, सूत्रचर्चा, tagged अङ्गाधिकारः(६/४तः७/४), छात्रा, प्रश्नः, विधिसूत्रम्, सुबन्तः on नवम्बर 30, 2009 | Leave a Comment »
उपधादीर्घभेदः कस्मात्??
Posted in असन्देहार्थं चाध्येयम्....., शब्दसाधुत्वम्, सूत्रचर्चा, tagged अङ्गाधिकारः(६/४तः७/४), प्रश्नः, विधिसूत्रम्, सुबन्तः on नवम्बर 28, 2009 | 3 Comments »
कर्ता-कर्तारौ इति भवति तथा पिता-पितरौ इति। किं कारणम् अस्य भेदस्य?
उपधा-दीर्घ:….
Posted in असन्देहार्थं चाध्येयम्....., शब्दसाधुत्वम्, सूत्रचर्चा, tagged अङ्गाधिकारः(६/४तः७/४), प्रश्नः, विधिसूत्रम्, सुबन्तः on नवम्बर 27, 2009 | 3 Comments »
पितृ-शब्दे पितन्+सु इति जाते ; कर्तृ-शब्दे च कर्तन्+सु इति जाते उपधा-दीर्घकरम् सूत्रं समानम् उत भिन्नम्?
“कर्ण…..”
Posted in असन्देहार्थं चाध्येयम्....., संज्ञाप्रकरणम्, सूत्रचर्चा, tagged प्रश्नः, संज्ञाः on नवम्बर 26, 2009 | 2 Comments »
“कर्ण” इति शब्दे रकार-णकारयोः मध्ये किम्? संयोगः अथवा संहिता ।
अभवन् …….
Posted in असन्देहार्थं चाध्येयम्....., शब्दसाधुत्वम्, सूत्रचर्चा, tagged तिङन्तः, प्रश्नः, सूक्तयः on नवम्बर 25, 2009 | 8 Comments »
अभवत् इत्यत्र – भू+शप्+झि- //भू+अ+झ्-इ // अस्याम् स्थितौ झोऽन्तः इति अन्त-आदेशः अथ च इतश्च इति इकार-लोपः उभयम् अपि युगपत् प्राप्नोति। कतरो विधिः बलीयान्? कश्चात्र विनिगमकः? (पाणिनिशाला-संस्कृतभारत्याम् मीनाक्षिवर्यया पृष्ट एषः)
“राम+स्” (१/१)
Posted in असन्देहार्थं चाध्येयम्....., शब्दसाधुत्वम्, सूत्रचर्चा, tagged छात्रा, प्रश्नः, सुबन्तः on नवम्बर 23, 2009 | 5 Comments »
“राम+स्” (१/१) अत्र रामशब्दस्य प्रातिपदिकसंज्ञायां सत्याम् अपि तद्गतस्य सकारस्य सुपो धातुप्रातिपदिकयोः (पा.२/४/७१)इत्यनेन सूत्रेण न भवति । अत्र किं कारणम्? (प्रश्नोऽयं पाणिनिशालायां कृति-नाम्न्या छात्रया जिज्ञासितः! नव.२००९)