अत्र पाणिनिमहर्षिणा प्रोक्तदिशा संस्कृतभाषायाः साधुत्वमधिकृत्य चर्चा विधीयते।
स्वागतम् अत्र सर्वेषाम् संस्कृतप्रेष्ठानाम् भवतां सम्मतिभिः उत्तरैः प्रश्नैश्च सहकृतानाम्॥
बलरामशुक्लः
अत्र पाणिनिमहर्षिणा प्रोक्तदिशा संस्कृतभाषायाः साधुत्वमधिकृत्य चर्चा विधीयते।
स्वागतम् अत्र सर्वेषाम् संस्कृतप्रेष्ठानाम् भवतां सम्मतिभिः उत्तरैः प्रश्नैश्च सहकृतानाम्॥
बलरामशुक्लः
question 1
avadheeraya how to made this dhatu roop?
हार्दिकं स्वागतम् माधवब्रजेशौ भवतोः पणिनिब्लोग्मध्ये !!!
वर्तते चुरादिगणे अवधीर इति धातुः(क्रमसंख्या ३८६) । तेन सिध्यति शब्दोऽयम्।
यथा- अवधीर+णिच्+शप्+तिप्
अवधीर्+इ+अ+ति (अनुबन्धलोपः, अतो लोपः)
अवधीरे+अति (सार्वधातुकार्धधातुकयोः)
अवधीरयति (एचोऽयवायावः)
ध्यातव्यम् यत् अयम् धातुः उपलब्धेषु सर्वेषु धातुपाठेषु न गृहीतः परन्तु मैत्रेयक्षीरस्वामिभ्यां व्याख्यातः।
पश्यताम्-”पाणिनीयधातुपाठसमीक्षा” – भगीरथप्रसादत्रिपाठी (पृ.सं.५७४)।
कृपया मम अपि शङ्कायाः समाधानं कुर्वन्तु–
खलपूः(प्रथमा-एकवचन)इति सिद्धौ “खलपू स्”-इति जाते “हल्ड्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्” इत्यनेन सूत्रेण (दीर्घान्त खलपू एत्यस्य पश्चात् सु-इत्यस्य अपृक्त )सकारस्य किमर्थं लोपः न भवति ?
खलपू शब्दः न हलन्तः न ङ्यन्तः न आबन्तः। सूत्रे दीर्घशब्दः ङ्यन्त-आबन्तयोः विशेषणम् । केवलं दीर्घत्वम् सुलोपाय न अलम्। ङ्यन्त-आबन्तौ यदा दीर्घौ तदैव सुलोपः।
धन्यवादः महोदय | अवगतम् मया |
please define the anubandh lope
उत्तमः प्रश्नः!
अनु=पश्चात् बद्ध्यते इति अनुबन्धः। अर्थात् इत्सञ्ज्ञक-वर्णाः। तेषां लोपः अनुबन्ध-लोपः।
आचार्येण १/३/२ तः १/३/८ पर्यन्तम् (१)वर्णानाम् इत्-सञ्ज्ञा कृता ;
१/३/९ तम-सूत्रेण च तेषां विहित-इत्-सञ्ज्ञकानां (२)लोपः आदिष्टः।
उभय-कार्ययोः समेकितं नाम वर्तते ’अनुबन्ध-लोप’ इति।
वैयाकरणैः लाघव-वशात् अयं शब्दः प्रयुज्यते ।
पाणिनिना अस्य शब्दस्य
प्रयोगः न कृतः॥
भूयोऽपि स्वागतम्!!
हरि ॐ ।
नमस्कारः ।
पाणिनी महर्षेः गणपाठः अस्ति इति शृतं मया । परन्तु अन्तर्जालपुठे कुत्रापि द्रष्टुं न शक्यते । संस्कृतपुस्तकालये अपि धातुपाठः एव विध्यते । गणपाठः इति पृथक् भवति वा इति शंसयनिवारणं कृपया कुरुताम् ।
धन्यवादः
कलिवरदः
अवधीरयतीतिशब्दनिष्पत्तिविवरणे भवता “पश्यताम्-”पाणिनीयधातुपाठसमीक्षा”” इति लिखितं दृश्यते । कर्मण्र्यर्थे यकि शित्प्रत्ययाभावात् “पाघ्राध्मास्थृा……” इतिसूत्रविहितः पश्यादेशो न भवेत् किल? दृश्यतामित्यस्यैव साधुता मयाधीता । पश्यातामिति कथं भवतीति दयया विशदीक्रियताम् ।
नमो’स्तु श्रीमते आयुर्वेदनारायणाय !!
स्वागतम् अत्रभवतो’त्र पाणिनिशालायाम् !
सम्यगवलोकितम् श्रीमता ! धन्यवादास्तदर्थम्!
पश्यतु ! मयात्र स्वकीयच्छात्रद्वयाय लिखितमेतत्- भवन्तौ पश्यताम् इति !! ग्रन्थनाम्नि द्वितीया न प्रयुक्ता येन तस्य मूलनाम अवगतम् स्यात् !
इति इत्यव्ययम् आदाय व्याख्येयम् तत् !निपातेन अभिहितत्वात् ग्रन्थे प्रथमा सेत्स्यति !-”पाणिनीयधातुपाठसमीक्षा” इति पश्यताम् भवन्तौ ।
इतिवद् अवधेयम् तत्!
bhuyo’pi svaagatam!
namo’stu!