को नाम अनुबन्ध-लोपः?
(व्रजेश मिश्रः ज्ञातुम् ईहते ; १५-१२-२००९)
अनु=पश्चात् बद्ध्यते इति अनुबन्धः। अर्थात् इत्सञ्ज्ञक-वर्णाः। तेषां लोपः अनुबन्ध-लोपः।
आचार्येण १/३/२ तः १/३/८ पर्यन्तम् (१)वर्णानाम् इत्-सञ्ज्ञा कृता ;
१/३/९ तम-सूत्रेण च तेषां विहित-इत्-सञ्ज्ञकानां (२)लोपः आदिष्टः।
उभय-कार्ययोः समेकितं नाम वर्तते ’अनुबन्ध-लोप’ इति।
वैयाकरणैः लाघव-वशात् अयं शब्दः प्रयुज्यते ।
पाणिनिना अस्य शब्दस्य प्रयोगः न कृतः॥
