को नाम अनुबन्ध-लोपः? (व्रजेश मिश्रः ज्ञातुम् ईहते ; १५-१२-२००९) अनु=पश्चात् बद्ध्यते इति अनुबन्धः। अर्थात् इत्सञ्ज्ञक-वर्णाः। तेषां लोपः अनुबन्ध-लोपः। आचार्येण १/३/२ तः १/३/८ पर्यन्तम् (१)वर्णानाम् इत्-सञ्ज्ञा कृता ; १/३/९ तम-सूत्रेण च तेषां विहित-इत्-सञ्ज्ञकानां (२)लोपः आदिष्टः। उभय-कार्ययोः समेकितं नाम वर्तते ’अनुबन्ध-लोप’ इति। वैयाकरणैः लाघव-वशात् अयं शब्दः प्रयुज्यते । पाणिनिना अस्य शब्दस्य प्रयोगः न कृतः॥
Archive for दिसम्बर 15th, 2009
को नाम अनुबन्ध-लोपः?
Posted in असन्देहार्थं चाध्येयम्....., संज्ञाप्रकरणम्, tagged छात्रः, प्रश्नः, संज्ञाः on दिसम्बर 15, 2009 | Leave a Comment »