Feeds:
पोस्ट
टिप्पणियाँ

Archive for दिसम्बर, 2009

को नाम अनुबन्ध-लोपः? (व्रजेश मिश्रः ज्ञातुम् ईहते ; १५-१२-२००९)     अनु=पश्चात् बद्ध्यते इति अनुबन्धः। अर्थात् इत्सञ्ज्ञक-वर्णाः। तेषां लोपः अनुबन्ध-लोपः। आचार्येण १/३/२ तः १/३/८ पर्यन्तम् (१)वर्णानाम् इत्-सञ्ज्ञा कृता ; १/३/९ तम-सूत्रेण च तेषां विहित-इत्-सञ्ज्ञकानां (२)लोपः आदिष्टः। उभय-कार्ययोः समेकितं नाम वर्तते ’अनुबन्ध-लोप’ इति। वैयाकरणैः लाघव-वशात् अयं शब्दः प्रयुज्यते । पाणिनिना अस्य शब्दस्य प्रयोगः न कृतः॥  

Read Full Post »

Follow

Get every new post delivered to your Inbox.