“
क्रोष्टा” सिद्धौ कथं “ऋदुशनस्पुरुदंशोऽनेहसां च(७/१/९४)” सूत्रं “ऋतो ङिसर्वनामस्थानयोः(७/३/११०)” इति सूत्रं बाधितुं शक्नोति ! “ऋतो ङिसर्वनामस्थानयोः(७/३/११०)” इति सूत्रं तु “ऋदुशनस्पुरुदंशोऽनेहसां च(७/१/९४)” इति सूत्रात् पश्चात् अस्ति अतएव बलीयः अपि ! किम् “ऋदुशनस्पुरुदंशोऽनेहसां च(७/१/९४)” अपवाद सूत्रं अस्ति? अतएव बलीयः ?
अपवादाः अल्पदेश-व्याप्तिमन्तः , उत्सर्गाः पुनः अधिक-देश-व्यापिनः। उभौ च समान-विषयकाः। पश्यतु अत्र –
“ऋदुशनस्पुरुदंशोऽनेहसां च(७/१/९४)” सु-मात्र-विषयः,“ऋदुशनस्पुरुदंशोऽनेहसां
च
(७/१/९४)” इति सर्वनामस्थान-विषयकः। अतः “ऋदुशनस्पुरुदंशोऽनेहसां च(७/१/९४)” इत्यस्य अपवादत्वं स्पष्टम् एव।अपवादाः बलीयांसः भवन्ति –”अपवादो वचनप्रामाण्यात्”। आर्थात् यदि अपवादस्यापि क्षेत्रे उत्सर्गः प्रवर्तेत तदा अपवाद-सूत्र-निर्माणस्य पाणिनेह् प्रयत्न एव व्यर्थः स्यात् । पाणिनिः आचार्य कदापि व्यर्थम् न चेष्टते , इति कृत्वा अपवादाः उत्सर्गान् बाधन्ते। उत्सर्गस्तु अपवाद-विषयं त्यक्त्वा एव प्रवर्तते – तथा च परिभाषे-
१-’प्रथमम् अपवादोऽभिनिविशते तत उत्सर्गः’ , २- ’प्रकल्प्य चापवाद-विषयान् उत्सर्गः प्रवर्तते।’
उत्सृज्य प्रवृत्तत्वाद् एव उत्सर्गः उत्सर्ग इति कथ्यते॥