“राम+स्” (१/१) अत्र रामशब्दस्य प्रातिपदिकसंज्ञायां सत्याम् अपि तद्गतस्य सकारस्य सुपो धातुप्रातिपदिकयोः (पा.२/४/७१)इत्यनेन सूत्रेण न भवति । अत्र किं कारणम्?
(प्रश्नोऽयं पाणिनिशालायां कृति-नाम्न्या छात्रया जिज्ञासितः! नव.२००९)
नवम्बर 23, 2009 balramshukla द्वारा
“राम+स्” (१/१) अत्र रामशब्दस्य प्रातिपदिकसंज्ञायां सत्याम् अपि तद्गतस्य सकारस्य सुपो धातुप्रातिपदिकयोः (पा.२/४/७१)इत्यनेन सूत्रेण न भवति । अत्र किं कारणम्?
(प्रश्नोऽयं पाणिनिशालायां कृति-नाम्न्या छात्रया जिज्ञासितः! नव.२००९)
सुपो धातुप्रातिपदिकयोः (पा.२/४/७१)–इत्यनेन सूत्रेण “प्रातिपदिकस्य अवयव-सुप”-इत्यस्य लोपः भवति |
“राम+सु ” इत्यस्मिन् “सु”-”प्रातिपदिकस्य” अवयवः नास्ति ; “पदस्य” अवयवः अस्ति ( ” सुप्तिङन्तं पदम् “) , अतः अत्र “सुपो धातुप्रातिपदिकयोः” सूत्रेण “सु” इत्यस्य लोपः न भवति |
धन्यवादः महोदयः! अहम् सम्यक् अवगतवती खलु !
कृति मलिक
सत्यम्! भवत्या सम्यक् अवगतम्!! वर्द्धापनानि!! धन्यवादाः !!! स्वागतम् च पाणिनेः ब्लाग्-मध्ये।
“राजन् ङस् पुरुष सु ” इत्यस्मिन् समासे तु विभक्त्योः लोपः भवत्येव । कारणम् – समासत्वाद् अत्र सम्पूर्णस्य शब्दस्वरूपस्य प्रातिपदिकसञ्ज्ञा, विभक्तिश्च अत्र प्रातिपदिकस्य अवयवः।
वस्तुतः ’ धातुप्रातिपदिकयोः’ इत्यत्र् न सप्तमी (यस्याः अर्थः स्यात् – ’एतयोः समीपस्य सुपः लोपः भवेत्’ तदा अनिष्टापत्तिः) अपितु अवयवावयविभावे षष्ठी । अत एव अर्थः लभ्यते – एतयोः अवयवस्य इति ।(पश्यतु न्यास-ग्रन्थम्—२/४/७१)।
न्यास-ग्रन्थम् किम् महोदयः ?
अष्टाध्याय्याः काशिकावृत्तौ आचार्यजिनेन्द्रबुद्धिना विरचिता व्याख्या ’न्यास’नाम्ना अभिधीयते। एषा खलु स्वकीय-प्रसन्न गम्भीरशैल्या प्रसिद्धा।