Feeds:
पोस्ट
टिप्पणियाँ

Archive for नवम्बर, 2009

खलपूः   (प्रथमा-एकवचन)इति सिद्धौ “खलपू स्”-इति जाते “हल्ड्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्” इत्यनेन सूत्रेण (दीर्घान्त खलपू एत्यस्य पश्चात् सु-इत्यस्य अपृक्त )सकारस्य किमर्थं लोपः न भवति ?(   कृतिः जिज्ञासते-२९-११-२००९)प्रतिस्पन्दः–   खलपू शब्दः न हलन्तः न ङ्यन्तः न आबन्तः। सूत्रे दीर्घशब्दः ङ्यन्त-आबन्तयोः विशेषणम् । केवलं दीर्घत्वम् सुलोपाय न अलम्। ङ्यन्त-आबन्तौ यदा दीर्घौ तदैव सुलोपः।दीर्घशब्दः ङ्यन्त-आबन्तयोः विशेषणम् दत्तम् [...]

Read Full Post »

  “ क्रोष्टा” सिद्धौ कथं “ऋदुशनस्पुरुदंशोऽनेहसां च(७/१/९४)” सूत्रं “ऋतो ङिसर्वनामस्थानयोः(७/३/११०)” इति सूत्रं बाधितुं शक्नोति ! “ऋतो ङिसर्वनामस्थानयोः(७/३/११०)” इति सूत्रं तु “ऋदुशनस्पुरुदंशोऽनेहसां च(७/१/९४)” इति सूत्रात् पश्चात् अस्ति अतएव बलीयः अपि ! किम् “ऋदुशनस्पुरुदंशोऽनेहसां च(७/१/९४)” अपवाद सूत्रं अस्ति? अतएव बलीयः ? अपवादाः अल्पदेश-व्याप्तिमन्तः , उत्सर्गाः पुनः अधिक-देश-व्यापिनः। उभौ च समान-विषयकाः। पश्यतु अत्र – “ऋदुशनस्पुरुदंशोऽनेहसां च(७/१/९४)” सु-मात्र-विषयः,“ऋदुशनस्पुरुदंशोऽनेहसां च [...]

Read Full Post »

कर्ता-कर्तारौ इति भवति तथा पिता-पितरौ इति। किं कारणम् अस्य  भेदस्य?

Read Full Post »

              पितृ-शब्दे पितन्+सु इति जाते ; कर्तृ-शब्दे च कर्तन्+सु इति जाते उपधा-दीर्घकरम् सूत्रं समानम् उत भिन्नम्?  

Read Full Post »

“कर्ण” इति शब्दे रकार-णकारयोः मध्ये किम्? संयोगः अथवा संहिता ।

Read Full Post »

पाणिनेर्न नदी गङ्गा यमुना न स्थली नदी।नरः स्वातन्त्र्यमापन्नो यदिच्छति करोति तत्॥  पाणिनेः सूत्रैः गङ्गायमुनयोः नदीसंज्ञा न भवति ।   “यूस्त्र्याख्यौ नदी” इति सूत्रेण केवलम् ईकार   – ऊकारन्तानामेव नदीसञ्ज्ञान तु आकारान्तानाम्। स्थलीशब्दस्य पुनः ईकारान्तत्वाद् भवत्येव।एतादृशम् उत्तराधरं स्वतन्त्र एव कर्तुम् शक्नोति जनः।सत्यमेव व्याकरणस्य   “स्वतन्त्रः कर्ता” ।     

Read Full Post »

अभवत् इत्यत्र – भू+शप्+झि- //भू+अ+झ्-इ // अस्याम् स्थितौ झोऽन्तः इति अन्त-आदेशः अथ च इतश्च इति इकार-लोपः उभयम् अपि युगपत् प्राप्नोति। कतरो   विधिः बलीयान्? कश्चात्र विनिगमकः?       (पाणिनिशाला-संस्कृतभारत्याम् मीनाक्षिवर्यया पृष्ट एषः)  

Read Full Post »

“राम+स्” (१/१) अत्र रामशब्दस्य प्रातिपदिकसंज्ञायां सत्याम् अपि तद्गतस्य सकारस्य सुपो धातुप्रातिपदिकयोः (पा.२/४/७१)इत्यनेन सूत्रेण न भवति । अत्र किं कारणम्? (प्रश्नोऽयं पाणिनिशालायां कृति-नाम्न्या छात्रया जिज्ञासितः! नव.२००९)

Read Full Post »

’राजन्+स्’ (राजन् १/१) इत्यत्र सकारस्य ’संयोगान्तस्य लोपः’(पा.८/२/२३) इति सूत्रेण कथम् न?    (श्रीविजयजैनेन जिज्ञासितम्, nov.23/11/2009, evening)   

Read Full Post »

सूत्रम् पाणिनिबद्धं कलयन् पुरुषः समुद्वहति सुदॄशम् /   वर्णादीनां धर्मान् बुद्ध्वा सम्यक् प्रयुङ्क्तेऽसौ //

Read Full Post »

Older Posts »

Follow

Get every new post delivered to your Inbox.